|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.27. अध्यायः 027
Mahabharata - Sabha Parva - Chapter Topics
अर्जुनदिग्वजये भगदत्तादिजयः॥ 1॥
Mahabharata - Sabha Parva - Chapter Text
जनमेजय उवाच॥
दिशामभिजयं ब्रह्मन्विस्तरेणानुकीर्तय।
न हि तृप्यामि पूर्वेषां शृण्वानश्चरितं महत्॥ 2-27-1(12426)
वैशम्पायन उवाच। 2-27-2x(1436)
धनञ्जयस्य वक्ष्यामि विजयं पूर्वमेव ते।
यौगपद्येन पार्थैर्हि निर्जितेयं वसुन्धरा॥ 2-27-2(12427)
`अवाप्य राजा राज्यार्धं कुन्तीपुत्रो युधिष्ठिरः।
महत्त्वे राजशब्दस्य मनश्चक्रे महामनाः॥ 2-27-3(12428)
तदा क्षात्रं विदित्वाऽस्य पृथिवीविजयं प्रति।
अमर्षात्पार्थिवेन्द्राणां तं समेयाय वारयत्॥ 2-27-4(12429)
तत्समेत्य भुवः क्षात्रं रथनागाश्वपत्तिमत्।
अभ्ययात्पार्थिवं जिष्णुं मोघं कर्तुं जनाधिप॥ 2-27-5(12430)
तत्पार्थः पार्थिवं क्षात्रं युयुत्सुं परमाहवे।
प्रत्युद्ययौ महाबाहुस्तरसा पाकशासनिः॥ 2-27-6(12431)
तद्भग्रं पार्थिवं क्षात्रं पार्थेनाक्लिष्टकर्मणा।
वायुनेव घनानीकं तूलीभूतं ययौ दिशः॥ 2-27-7(12432)
तज्जित्वा पार्थिवं क्षात्रं समरे परवीरहा।
ययौ तदा वशे कर्तुमुदीचीं पाण्डुनन्दनः'॥ 2-27-8(12433)
पूर्वं कुलिङ्गविषये वशे चक्रे महीपतिम्।
धनञ्जयो महाबाहुर्नातितीव्रेण कर्मणा॥ 2-27-9(12434)
`तेनैव सहितः प्रायाज्जिष्णुः साल्वपुरं प्रति।
स साल्वपुरमासाद्य साल्वराजं धनञ्जयटः॥ 2-27-10(12435)
विक्रमेणोग्रधन्वानं वशे चक्रे महामनाः।
तं पार्थः सहसा जित्वा द्युमत्सेनं महीश्वरम्॥ 2-27-11(12436)
कृत्वा स सैनिकं प्रायात्कटदेशमरिन्दमः।
तत्र पार्थो रणे जिष्णुः सुनाभं वसुधाधिपम्॥ 2-27-12(12437)
विक्रमेण वशे कृत्वा कृतवाननुसैनिकम्।
एतेन सहितो राजन्सव्यसाची परन्तपः'॥ 2-27-13(12438)
विजिग्ये शाकलद्वीपे प्रतिविन्ध्यं च पार्थिवम्।
शाकलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः॥ 2-27-14(12439)
अर्जुनस्य च सैन्यस्थैर्विग्रहस्तुमुलोऽभवत्।
तान्सर्वानजयत्पार्तो धर्मराजप्रियेप्सया॥ 2-27-15(12440)
तैरेव सहितः सर्वैः प्रग्ज्योतिषमुपाद्रवत्॥ 2-27-16(12441)
तत्र राजा महानासीद्भगदत्तो विशाम्पते।
तेनासीत्सुमहद्युद्धं पाण्डवस्य महात्मनः॥ 2-27-17(12442)
स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत्।
अन्यैश्च बहुभिर्योधैः सागरानुपवासिभिः॥ 2-27-18(12443)
ततः स दिवसानष्टौ योधयित्वा धनञ्जयम्।
प्रहसन्नब्रवीद्राजा सङ्ग्रामविगतक्रमम्॥ 2-27-19(12444)
उपपन्नं महाबाहो त्वयि कौरवनन्दन।
पाकशासनदायादे वीर्यमाहवशोभिनि॥ 2-27-20(12445)
अहं सखा महेन्द्रस्य शक्रादनवरो रणे।
न शक्ष्यामि च ते तात स्थातुं प्रमुखतो युधि॥ 2-27-21(12446)
त्वमीप्सितं पाण्डवेयं ब्रूहि किं करवाणि ते।
यद्वक्ष्यसि महाबाहो तत्करिष्यामि पुत्रक॥ 2-27-22(12447)
अर्जुन उवाच॥ 2-27-23x(1437)
कुरूणामृषभो राजा धर्मपुत्रो युधिष्ठिरः।
धर्मज्ञः सत्यसन्धश्च यज्वा विपुलदक्षिणः॥ 2-27-23(12448)
तस्य पार्थिवतामीप्से करस्तस्मै प्रदीयताम्।
भवान्पितृसखश्चैव प्रीयमाणो मयापि च।
ततो नाज्ञापयामि त्वां प्रीतिपूर्वं प्रदीयताम्॥ 2-27-24(12449)
भगदत्त उवाच। 2-27-25x(1438)
कुन्तीमातर्यथा मे त्वं तथा राजा युधिष्ठिरः।
सर्वमेतत्करिष्यामि किं चान्यत्करवाणि ते॥ ॥ 2-27-25(12450)
इति श्रीमन्महाभारते सभापर्वणि दिग्विजयपर्वणि सप्तविंशोऽध्यायः॥ 27॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|